JAC Board Solutions : Jharkhand Board TextBook Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th

themoneytizer

      Jharkhand Board Class 8  Sanskrit  Notes | झारखण्डप्रान्तस्य पर्व 'मण्डा'  

  JAC Board Solution For Class 8TH Sanskrit Chapter 11


पाठः ―
अस्माकं झारखण्डप्रदेशे एक महत्वपूर्ण पर्व 'मण्डा' इति अस्ति ।
अस्मिन् पर्वणि जनाः विविधरूपैः शिवम् आराधयन्ति । 'मण्डा'
इति उत्सवः वैशाखमासस्य शुक्लपक्षस्याक्षयतृतीयातः प्रारभ्यते ।
चतुर्दिवसपर्यन्तम् एनं उत्सवं झारखण्डप्रदेशस्य जनजातयः सदाना:
च समानरुपेण मिलित्वा आयोजयन्ति । 'मण्डा' इति पर्वणः पूर्वं
झारखण्डवासिनः स्वगृहाणि स्वच्छं कुर्वन्ति नूतनानि वस्त्राणि क्रीणन्ति
च । अस्मिन् उत्सवे प्रत्येकगृहस्य एकः पुरुषसदस्यः व्रती भवति ।
स: 'भगता' इति कथ्यते । तस्य माता भगिनी वा अपि उपवासं
करोति सा 'सोखताईन' इति कथ्यते । रात्रो जागरणं भवति ।
भगताः जागरणरात्रौ नदीजले स्नात्वा धूपधुवनस्य उपरि अधोमुखीं
भूत्वा दोलन्ति । एषा क्रिया 'धुआँसी' इति कथ्यते ।

अर्थ―
हमारे झारखंड प्रदेश में एक महत्त्वपूर्ण पर्व मण्डा है । इस पर्व में
लोग विविध रूपों से शिव की आराधना करते हैं। 'मण्डा' उत्सव
बैसाख मास शुक्लपक्ष के तृतीया तिथि से आरम्भ होता है । चार
दिनों तक इस पर्व को झारखण्ड प्रदेश की जनजातियाँ और
मूलवासी समान रूप से मिलकर आयोजन करते हैं । 'मण्डा' पर्व
के पहले झारखण्ड की वासी अपने घरों को साफ करते हैं और
नये वस्त्र खरीदते हैं। इस पर्व में प्रत्येक घर का एक पुरुष सदस्य
व्रती होता है। वह 'भगता' कहा जाता है। उसकी माँ या बहन
भी उपवास करती है वह 'सोखताईन' कहलाती है। रात में जागरण
होता है । भगता जागरण की रात में नदी के जल में नहाकर "धूप
और धुआँ" के ऊपर मुँख को नीचे कर झूलते हैं। यह क्रिया
'धुऑसी" कही जाती है।

पाठः―
ततः दगधेषु अंगारेषु ते नग्नपादाभ्याम् चलन्ति । नग्नपादैः अंगारेषु
चलनस्य क्रिया 'फूलखूदी' इति कथ्यते । पावें स्थिते शिवमन्दिरे
जलाभिषेक कुर्वन्ति । अर्धरात्री 'छऊ' नृत्यस्य आयोजनं भवति ।
अस्मिन् नर्तकाः मुखावरणं कृत्वा नृत्यन्ति । नृत्ये ते रामायणस्य
महाभारतस्य वा कथा दर्शयन्ति ।

अर्थ ―
उसके बाद जलते हुए अंगारों पर वे नंगे पाँव चलते हैं। नंगे पैरों
से चलने की क्रिया 'फूलखूदी' कहलाती है। समीप में स्थित शिव
मंदिर में जल का अभिषेक करते हैं। आधी रात में 'छऊ' नाच का
आयोजन होता है। इसमें नाचने वाले मुख को ढ़ककर नाचते हैं।
नाच में वे रामायण या महाभारत को कथा दिखाते हैं।

पाठः ― 
पर्वणः द्वितीयदिवसे सर्वे भगताः चक्रदोलायां दोलन्ति । दोलनक्रमे
पुष्पाणि वर्षयन्ति । जनाः तानि पुष्पाणि चिन्वन्ति । मान्यता अस्ति
यत् तानि पुष्पाणि धनवृद्धिं कुर्वन्ति । यावत् भगताः दोलन्ति तावत्
तेषां मातरः भगिन्यः च शिवम् आराधयन्ति । मण्डामेलकम् झारखण्डे
अतीव प्रसिद्ध मेलकं भवति यस्मिन् सम्मिलितु सहस्रशः जनाः
आगच्छन्ति ।

अर्थ―
पर्व के दूसरे दिन सभी भक्त चक्र के झूला पर झूलते हैं। झूलने
के क्रम में फूलों की वर्षा होती है । लोग उन फूलों को चुनते हैं।
मान्यता है कि वे फूल धन की वृद्धि करते हैं । जबतक भक्त झूलते
हैं तब तक उनके ऊपर माँ और बहनें शिव की आराधना करती
हैं। मण्डा मेला झारखण्ड में बहुत प्रसिद्ध मेला होता है, जिसमें
शामिल होने के लिए हजारों लोग आते हैं।

पाठः―
पारम्परिकानुष्ठानेन सह मण्डोत्सवस्य समापनं भवति । अस्मिन
अनुष्ठाने शिवभक्ताः पूर्णास्थायाः परिचयं ददाति । सर्वेषां गृहेषु
नूतनव्यञ्जनानि पच्यन्ति । 'मण्डा' इति पर्व त्यागस्य, तपसः आस्थायाः
विश्वासस्य च परिचायकम् अस्ति ।
                      'शिवस्याराधनं यस्मिन् श्रद्धया त्यागपूर्वकम् ।
                      विश्वासोत्पादकः यज्ञः तत्मण्डा इति कथ्यते ।।"

अर्थ―
पारम्परिक अनुष्ठान के साथ 'मण्डा' पर्व का समापन होता है।
इस अनुष्ठान में शिवभक्त पूर्ण आस्था का परिचय देते हैं। सभी
घरों में नये पकवान बनते हैं। 'मण्डा' पर्व त्याग, तपस्या, आस्था
और विश्वास का परिचायक है। "जो पर्व शिव की आराधना
श्रद्धा, त्याग और विश्वास का उत्पादन करता है वह 'मण्डा' कहा
जाता है।"

                       अभ्यासः

प्रश्न 1 शब्दार्थ है।
2. एकपदेन उत्तरत―
(क) 'मण्डा' इति पर्व कदा आयोज्यते ?
(ख) के मण्डापर्वणः आयोजनं कुर्वन्ति ?
(ग) कः व्रती भवति?
(घ) रात्रौ भगताः कुत्र स्नानं कुर्वन्ति ?
(ङ) दोलनक्रमे भगता: किं वर्षयन्ति ?
(च) मण्डापर्वणि जनाः किं पूजयन्ति ?
उत्तर―(क) वैशाखशुक्लपक्षे 
(ख) जनजातयः
(ग) पुरुषसदस्यः
(घ) नदीजले
(ङ) पुष्पाणि
(च) शिवम्

3. रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत―
(क) जनाः विविधरुपैः शिवम् आराधयन्ति ।
(ख) रात्रौ जागरणं भवति ।
(ग) नग्नपादैः जनाः अंगारेषु चलन्ति ।
(घ) शिवभक्ताः पूर्णास्थायाः परिचयं अस्मिन् अनुष्ठाने दर्शयन्ति ?
(ङ) दोलनक्रमे ते पुष्पाणि वर्षयन्ति ।
उत्तर―(क) जनाः विविधरूपैः कम् आरधयन्ति?
(ख) कदा जागरणं भवति।
(ग) नग्नपादैः जनाः केषु । कुत्र चलन्ति?
(घ) के पूर्णास्थायाः परिचयम् अस्मिन् अनुष्ठाने दर्शयन्ति?
(ङ) दोलनक्रमे ते जाति वर्षयन्ति?

4. मञ्जूषातः समुचितानि पदानि चित्वा रिक्तस्थानानि पूरयत―
      वस्त्राणि   अंगारेषु   उपवास   शिवम्   पुष्पाणि
(क) दोलनक्रमे भगताः .....................वर्षयन्ति ।
(ख) जनाः नग्नपादाभ्याम् ...................चलन्ति ।
(ग) भगताः ...................आराधयन्ति ।
(घ) तेषाम् मातरः अपि .................कुर्वन्ति ।
(ङ) जनाः नूतनानि .......................क्रीणन्ति ।
उत्तर―(क) पुष्पाणि (ख) अंगारेषु (ग) शिवम् (घ) उपवासं
(ङ) वस्त्राणि

5. अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत―
पुष्पाणि          ― ........................
अंगारेषु          ― ........................
रात्रौ               ― .......................
वस्त्राणि           ― ......................
दोलयति          ― ......................
भगिनी            ― .......................
उत्तर―पुष्पाणि            ― पुष्पाणि विकसन्ति।
अंगारेषु                       ― भगताः अंगारेषु चलन्ति।
रात्रौ                            ― ते रात्रौ जागरणं कुर्वन्ति।
वस्त्राणि                       ― जनाः नूतनानि वस्त्राणि क्रीणन्ति।
दोलयति                       ― चक्रदोलाया दोलयति।
भगिनी                         ― सा मम भगिनी अस्ति।

6. अधोलिखितेषु पदेषु प्रकृति-प्रत्यय-विभागं कुरुत―
          पदानि         प्रकृतिः       प्रत्ययः
यथा― गन्तुम्           गम्     +   तुमुन्
          ज्ञातुम्           ......    +  ........
          पातुम्           .......   + .........
         श्रोतुम्           ........   + .........
         ग्रहीतुम्         ........   + .........
        भ्रमितुम्         ........   + .........
उत्तर―ज्ञातुम्                ज्ञा + तुमुन्
         पातुम्                 पा + तुमुन्
         श्रोतुम्                 श्रु + तुमुन्
         ग्रहीतुम्              ग्रह + तुमुन्
        भ्रमितुम्              भ्रम् +तुमुन्

7. मञ्जूषातः क्रियापदानि चित्वा रिक्तस्थानानि पूरयत―
अस्ति   कुर्वन्ति   आराधयन्ति   कथ्यते   भवति
दोलयन्ति  पच्यन्ते
(क) 'मण्डा' झारखण्डप्रदेशस्य एक महत्त्वपूर्ण पर्व इति ...........।
(ख) भगताः चक्रदोलायाम् .....................।
(ग) सर्वेषां गृहेषु नूतनव्यंजनानि ...................।
(घ) समस्त भारतवर्षे जनाः विविधरुपैः शिवम्................।
(ङ) स: 'भगता' इति ....................।
(च) जनाः स्वगृहाणि स्वच्छं .....................।
(छ) पारंपारिकानुष्ठानेन सह 'मंडा' महोत्सवस्य समापनं ..............।
उत्तर―(क) अस्ति
(ख) दोलयन्ति
(ग) पच्यन्ते
(घ) आराधयन्ति
(ङ) कथ्यते
(च) कुर्वन्ति
(छ) भवति

8. भिन्नजातीयं पदं चिनुत―
(क) गच्छति पठति धावति अहसत् क्रीडति ।
(ख) छात्रः सेवक: शिक्षक: लेखिका क्रीडकः ।
(ग) पत्रम् मित्रम् पुष्पम् मधुकरम् नक्षत्रम् ।
(घ) व्याघ्रः भल्लूक: गजः कपोत: सिंहः ।
(ङ) पृथिवी वसुन्धरा धरित्री यानम् वसुधा ।
उत्तर―(क) अहसत् (ख) लेखिका (ग) मधुकरम् (घ) कपोतः
(ङ) यानम्

                                  ★★★

  FLIPKART

और नया पुराने

themoneytizer

inrdeal