JAC Board Solutions : Jharkhand Board TextBook Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th

themoneytizer

   Jharkhand Board Class 8  Sanskrit  Notes | नद्याः आत्मकथा  

  JAC Board Solution For Class 8TH Sanskrit Chapter 2


पाठः―
अहं नदी अस्मि । अहम् अस्याः वसुन्धरायाः सौन्दर्यम् अस्मि । मम
साम्राज्यं सम्पूर्ण विश्वे अस्ति । अहं माता इव सम्पूर्ण विश्वं
पालयामि । पर्वतानाम् उन्नतेभ्यः स्थलेभ्यः निःसृत्य अह सागरं
प्रविशामि । अहं सर्वदा गतिशीला अस्मि । मम तटेषु महानगराणां
विकासः भवति । एतेषा महानगराणां समृद्धेः अहम् एव कारणम्
इति जनाः वदन्ति । कस्यापि राष्ट्रकस्य विकासे मम महती भूमिका
वर्तते । सर्वे जनाः जानन्ति यत जल विना जीवनम् न । मम जलं
पीत्वा एव सर्वे जनाः जीवन्ति । मम जलेन एव क्षेत्राणि सिञ्च्यन्ते ।
अतः अहं भोजनेन अपि जनान् पालयामि । राष्ट्राणां विकासाय
विद्युतः महती भूमिका विद्यते । मम जलात् एव विद्युद् उत्पाद्यते।
भारते मम अनेकानि रूपाणि सन्ति । झारखण्डप्रदेशे अहं गङ्गा
स्वर्णरेखा अजयः कोयलः दामोदरः इत्यादिभिः नामभिः प्रवहामि।
बिहार-उत्तरप्रदेशे अहं मातृरूपे गङ्गा इति नाम्ना पूज्यास्मि । उत्तरस्यां
दिशि अहं 'सिन्धु' नाम्ना विख्याता। दक्षिणदिशायाम् अहं कावेरी
गोदावरी कृष्णा इति नाम्ना प्रवहामि । पूर्वस्यां दिशि अहं महानदी
कोसी (कौशिकी) ब्रह्मपुत्र इति नाम्ना विख्याता अस्मि ।

अर्थ―
मैं नदी हूँ। मैं इस पृथ्वी का सौन्दर्य हूँ। मेरा साम्राज्य सम्पूर्ण विश्व
में है। मैं माता की तरह सारे संसार का पालन करती हूँ। पहाड़ों
के ऊँचे स्थलों से निकलकर सागर में मैं प्रवेश करती हूँ। मैं
हमेशा गतिशील हूँ। मेरे किनारों पर महानगरों का विकास होता
है। इन महानगरों की समृद्धि का मैं ही कारण हूँ ऐसा लोग बोलते
है। किसी भी देश के विकास में मेरी बड़ी भूमिका है। सभी जानते
हैं कि जल के बिना जीवन नहीं है। मेरे जल को पीकर ही सभी
जीते हैं। मेरे जल से ही खेत सींचे जाते हैं। इसलिए मैं भोजन से
भी लोगों को पालती हूँ। देशों के विकास के लिए बिजली की
बड़ी भूमिका है। मेरे जल से ही बिजली उत्पादित होती है। भारत
में मेरे अनेक रूप हैं। झारखंड प्रदेश में मैं गंगा स्वर्णरेखा, अजय,
कोयल, दामोदर इत्यादि नामों से बहती हूँ। बिहार-उत्तरप्रदेश में
मैं माता के रूप में गंगा के नाम से पूजी जाती हूँ। उत्तर दिशा
में मैं सिन्धु नाम से प्रसिद्ध हूँ। दक्षिण दिशा में मैं कावेरी, गोदावरी,
कृष्णा नाम से बहती हूँ। पूर्व दिशा में मैं महानदी, कोसी, ब्रह्मपुत्र
नाम से प्रसिद्ध हूँ।

पाठ:―
पश्चिमदिशायाम् अहं नर्मदा वापी माही साबरमती लूनी इति नामभिः
प्रवहामि । विश्व मम विशालतम रूपम् अमेजननदी अस्ति दीर्घतमं
रूपं नाइल नदी' इति अस्ति । भारतवर्षे यत्र जलस्य अभावात् कृषिः
न भवति तत्र सर्वकारः महाबन्धान् निर्माय जलसञ्चयं करोति ।
भारतदेशे झारखण्डप्रदेशे मैथनः पतरातू चांडिलः तेनुघाटः नन्दिनी
इत्यादयः प्रसिद्धाः बन्धाः सन्ति । बिहारप्रदेशे अपि अनेके बन्धाः
सन्ति । सोननापरि इन्द्रपुरीबन्धः प्रसिद्धः । पञ्जाबक्षेत्रे भाखड़ानाङ्गलः
आन्ध्रप्रदेशे कृष्णराजसागरः तमिलनाङ्प्रदेशे मेटूरबन्धः राजस्थाने
च चम्बलबन्धः इति प्रसिद्धाः बन्धाः सन्ति । अस्माकं झारखण्डप्रदेशे
वृक्षाणां पादपानां वनौषधीनां व दुर्लभाः प्रजातयः बाहुल्येन प्राप्यन्ते।
प्राणिजीवनाय शुद्ध पर्यावरणम् अत्यावश्यकम् अस्ति । परन्तु अनेक
जनाः यन्त्रालयानां विषमिश्रितरसायनपदार्थान् मम जले क्षिपन्ति ।
मम जलं प्रदूषितं कुर्वन्ति । जलप्रदूषणं न करणीयम । मम ध्येयवाक्यम्
अस्ति―
"सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।"
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत् ।।

अर्थ―
पश्चिम दिशा में मैं नर्मदा, वापी, माही, सावरमती, लूनी नामों से
बहती हूँ। संसार में मेरा सबसे विशाल रूप अमेजन नदी है। बड़े
रूप से नाइल नदी हूँ। भारतवर्ष में जहाँ जल के अभाव में खेती
नहीं होती है वहाँ सरकार बड़ा बाँध निर्माण कर जल इकट्ठा
करती है। भारत देश के झारखण्ड प्रदेश में मैथन, पतरातू, चांडिल
तेनुघाट नंदिनी आदि प्रसिद्ध बाँध है। बिहार प्रदेश में भी अनेक
बाँध हैं। सोन नदी के ऊपर इन्द्रपुरी बाँध प्रसिद्ध है । पंजाब क्षेत्र
में भाखड़ानांगल आंध्रप्रदेश में तुंगभद्रा, केरल प्रदेश में मलम्पुष
कर्नाटक प्रदेश में कृष्णराज सागर तमिलनाडु प्रदेश में मेटूर बाँध
और राजस्थान में चम्बल बाँध प्रसिद्ध बाँध है। हमारे झारखण्ड
प्रदेश में वृक्ष, पौधे और वनौषधियों की दुर्लभ प्रजातियाँ अधिक
मात्रा में मिलती हैं। प्राणी जीवन के लिए शुद्ध पर्यावरण अति
आवश्यक है। परन्तु अनेक लोग कारखानों के जहर मिला हुआ
रासायनिक पदार्थों को मेरे जल में फेंकते हैं। मेरा जल प्रदूषित
करते हैं। जलप्रदूषण नहीं करना चाहिए।
मेरा ध्येय वाक्य है―
सभी सुखी हो, सभी निरोगी हो, सभी का कल्याण (अच्छा)
दिखें (हो)। किसी को कोई दु:ख न हो।

                                        अभ्यासः

प्रश्न संख्या 1 शब्दार्थ है।
2. 'आम्' अथवा 'न' माध्यमेन उत्तरत―
(क) किं नदी वसुन्धरायाः सौन्दर्यम् अस्ति ?
(ख) किं नद्या: जलं प्रदूषणं करणीयम् ?
(ग) किं झारखण्डप्रदेशे नद्यः वहन्ति ?
(घ) किं भारते नद्याः विशालतम रूपम् अमेजन इति अस्ति ?
(ङ) किं जलं विना जीवनं सम्भवम् अस्ति ?
उत्तर―(क) आम् (ख) न (ग) आम् (घ) न (ङ) न

3. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत―
(क) नदी कुत्र प्रविशति ?
(ख) का सर्वदा गतिशीला अस्ति?
(ग) कस्यापि राष्ट्रस्य विकासे कस्याः महती भूमिका भवति?
(घ) नद्याः तटेषु केषां विकासः भवति?
(ङ) प्राणिजीवनाय किम् अत्यावश्यकम् अस्ति ?
उत्तर― (क) सागरं (ख) नदी (ग) नद्याः (घ) महानगराणां
(ङ) पर्यावरणम्।

4. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत―
(क) झारखण्डप्रदेशे का: काः नद्यः प्रवहन्ति ?
(ख) पश्चिमदिशायां नदी काभिः नामभिः प्रवहति?
(ग) नद्याः ध्येयवाक्यं किम् अस्ति ?
(घ) नदी कुतः निःसृत्य कुत्र प्रविशति ?
(ङ) झारखण्डप्रदेशे केषां दुर्लभाः प्रजातयः प्राप्यन्ते ?
उत्तर―(क) झारखण्ड प्रदेशे स्वर्णरेखा कोयल: दामोदरः आदयः
नद्यः प्रवहन्ति।
(ख) पश्चिम दिशायां नदी नर्मदा वापी माही साबरमती लूनी इति
नामभिः प्रवहति।
(ग) नधाः ध्येयवाक्यम् अस्ति–
सर्वेभवन्तु सुखिनः सर्वेसन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत् ।।
(घ) नदी पर्वतानाम उन्नतेभ्यः स्थलेभ्यः निःसृत्या सागरं प्रविशति।
(ङ) झारखण्ड प्रदेशे वृक्षाणां पादपानां वनौषधीनां च दुर्लभाः
प्रजातयः प्राप्यन्ते।

5. रेखाङ्कितानि पदानि आधृत्य प्रश्नवाक्यानि लिखत-
(क) अहं भोजनेन जनान् पालयामि ।
(ख) भारते मम अनेकानि रूपाणि सन्ति ।
(ग) जनाः जलं पीत्वा जीवन्ति ।
(घ) अहं नदी अस्मि।
(ङ) जलस्य अभावात् कृषि न भवति ।
उत्तर― (क) अहं केन जनान् पालयामि?
(ख) भारते मम अनेकानि कानि सन्ति?
(ग) के जलं पीत्वा जीवन्ति?
(घ) अहं का अस्मि?
(ङ) कस्य अभावात् कृषिः न भवति?

6. उदाहरणं दृष्ट्वा पदपरिचयं लिखत―
          पदानि          विभक्तिः         वचनम्
यथा― पदार्थान्        द्वितीय          बहुवचनम्
उत्तर―
(क) प्राणिजीवनाय    चतुथी           एकवचन
(ख) वृक्षाणाम्           षष्ठी             बहुवचन
(ग) बन्धाः               प्रथमा           बहुवचन
(घ) जलेन               तृतीया          एकवचन
(ङ) विकासाय         चतुर्थी           एकवचन

7. उचितपदैः सह मेलनं कुरुत―
(क) वसुन्धरायाः                    प्रसिद्धा
(ख) राष्ट्रस्य                         सङग्रहणम्
(ग) विख्याता                       आधिक्येन
(घ) सञ्चयम्                          देशस्य
(ङ) बाहुल्येन पृथिव्याः            पृथिव्याः
उत्तर― (क)- पृथिव्याः (ख) - देशस्य  (ग)- प्रसिद्धा
(घ)- सङग्रहणम्  (ङ) - आधिक्येन

                                              ★★★

  FLIPKART

और नया पुराने

themoneytizer

inrdeal