JAC Board Solutions : Jharkhand Board TextBook Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th

   Jharkhand Board Class 6TH Sanskrit Notes | एकतायाः बलम  

    JAC Board Solution For Class 6TH Sanskrit Chapter 8


                        श्लोक का हिन्दी अनुवाद

पाठः― एकः वृद्धः आसीत् ।
तस्य चत्वारः पुत्राः आसन ।
ते परस्परं कलहं कुर्वन्ति स्म ।
    अर्थ― एक बूढ़ा था । उसके चार पुत्र थे । वे आपस में झगड़ा करते रहते
थे।

पाठः― तेषां कलहेन पिता चिन्तितः आसीत्।
सः कलहस्य निवारणाय
उपायम् अचिन्तयत् ।
सः पुत्रान् वनात् काष्ठखण्डान्
आनेतुम् अकथयत् ।
   अर्थ― उनके झगड़ा से पिता चिन्तित था । उसने झगड़ा को रोकने के लिए
उपाया सोचा । उसने पुत्रों को वन से लकड़ियों के टुकड़ों को लाने
के लिए कहा।

पाठः― सर्वे पुत्राः वनम् अगच्छन् ।
ते काष्ठखण्डान् आनयन् ।।
वृद्धः पुरुषः तान्
काष्ठखण्डान् समबध्नात् ।
        अर्थ― सभी पुत्र जंगल गये । वे लकड़ियों के टुकड़ें लाये । बूढ़े आदमी
उन लकड़ियों के टुकड़ों को बाँध दिया।

पाठः― पुनः सः वृद्धः पुरुषः एकैकं पुत्रं तं
काष्ठगुच्छं त्रोटनाय अकथयत् ।
सर्वे पुत्राः प्रयासम् अकुर्वन ।
किन्तु ते असफलः अभवन् ।
      अर्थ― फिर उस बूढ़े आदमी ने एक-एक बेटे को उस लकड़ी के गट्ठर
को तोड़ने के लए कहा । सभी पुत्रों ने प्रयास किया किन्तु वे
असफल हो गये।

पाठः― अन्ते सः वृद्धः पुरुष तं
काष्ठागुच्छं पृथक् अकरोत् ।
पुनः एकैकं काष्ठखण्ड
त्रोटनाय पुत्रान् अकथयत् ।
सर्वे पुत्राः एतत् कार्य
सरलतया अकुर्वन ।
    अर्थ― अंत में वह बूढ़े आदमी ने उस लकड़ी के गट्ठर को एक-एक
अलग करा दिया। फिर एक-एक लकड़ी को तोड़ने के लिए बेटो
से कहा। सभी पुत्रों ने इस कार्य को आसानी से कर लिया ।

पाठ:― तदा पिता सर्वेभ्यः
पुत्रेभ्यः विस्तरेण प्रबोधयत्–
अर्थ― तब पिता ने सभी बेटों को संबोधित किया।

पाठः― एकतायां बलमस्ति एकतायामस्ति साहसम् ।
इति विज्ञाय प्रज्ञावान् एकतां न परित्यजेत् ।। 1 ।।
अर्थ― एकता में बल और साहस है, ऐसा जानकर ज्ञानी को एकता नहीं
छोड़नी चाहिए।

पाठः― ऐक्याद् भवति साबल्याद् धैर्यमेति च ।
धैर्याद् भवति सुज्ञानं सर्वम् ऐक्ये प्रतिष्ठितम् ।। 2 ।।
अर्थ― एकता से बल होता है और बल से धैर्य होता है धैर्य से सुन्दर ज्ञान
होता है। इसलिए एकता में ही सब कुछ प्रतिष्ठित होता है।

                              अभ्यासः

प्रश्न संख्या 1 और 2 शब्दार्थ एवं उच्चारण है।
3. अधोलिखितानां प्रश्नानाम् उत्तरं लिखत―
(क) वृद्धस्य कति पुत्राः आसन् ?
(ख) वृद्ध केन चिन्तितः आसीत् ?
(ग) सर्वे पुत्राः कुत्र अगच्छन् ?
(घ) पुत्राः कुतः काष्ठखण्डान् आनयन् ?
(ङ) कः उपदेशम् अयच्छत् ?
उत्तर― (क) वृद्धस्य चत्वारः पुत्रा आसन् ।
(ख) वृद्धः कलहेन चिन्तितः आसीत् ।
(ग) सर्वे पुत्राः वनम् अगच्छन् ।
(घ) पुत्राः वनात् काष्ठखण्डान् आनयन् ।
(ङ) वृद्धः उपदेशम् अयच्छेत् ।

4. निम्नलिखितेभ्यः पदेभ्यः भिन्नजातीयं पदं चिनुत―
(क) वनात् पश्चात् ग्रामात् वृक्षात् ।
(ख) वनस्य नगरस्य रहस्य जलस्य ।
(ग) रामात् छात्रात् ग्रामात् साक्षात् ।
(घ) अनन्या लतायाः रमाया: बालिकायाः ।
उत्तर― (क) पश्चात् ।
(ख) रहस्य ।
(ग) साक्षात् ।
(घ) अनन्या।

5. कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत―
(क) रामः ................. आगच्छति ।     (ग्रामात्/ग्रामेण)
(ख) ..............पत्रं पतति।             (वृक्षात्/वृक्षण)
(ग) गङ्गा ................. प्रभवति।     (हिमालयात्/हिमालयम्)
(घ) पुत्रः ...................काष्ठम् आनयति।     (वनस्य/वनात्)
(ङ) पुस्तकं ..…........... अस्ति।                (रामस्य/रामात्)
(च) एषा .................गृहम् अस्ति।             (रमाया:/रमायाम्)
उत्तर― (क) ग्रामात्
(ख) वृक्षात्
(ग) हिमालयात्
(घ) वनात्
(ङ) रामस्थ
(च) रमाया:

6. अधोलिखितं वृत्तचित्रं पश्यत। उदाहरणानुसारेण द्वितीयकोष्ठकेषु
दत्तेषु शब्देषु विभक्तिं प्रयुज्य उचित-वाक्यानि रचयत।

यथा― (क) बालक: (स्यूतः) स्यूतात् पुस्तकं निष्कासयति।
(ख) ......................................।
(ग) ......................................।
(घ) ......................................।
(ङ) ......................................।
(च) ......................................।
(छ) ......................................।
(ज) ......................................।
उत्तर― (क) बालक: (स्यूतः) स्यूतात् पुस्तकं निष्कासयति।
(ख) बालकः शिक्षकात् पाठं पठति ।
(ग) बालक: वनात् काष्ठम् आनयति ।
(घ) बालक: तडगात् जलं नयति ।
(ङ) बालकः गृहात् विद्यालयम् आगच्छति।
(च) बालक: वृक्षात् फल त्रोटयति।
(छ) बालकः कोशात् धनम् आनयति।
(ज) बालक: आपणात् मोदकम् क्रीणाति।

7. चित्राणि दृष्ट्वा कोष्ठकगतशब्देषु उचितं विभक्तिं प्रयुज्य
वाक्यानि पूरयत―
.............पत्राणि पतन्ति । (वृक्ष)

  मूषकः ..............निर्गच्छति । (बिल)

 ................... वृष्टिः भवति । (आकाश)

    नदी ................. प्रभवति । (पर्वत)

............ फल पतति। (वृक्ष)

छात्राः ................ गृहं गच्छन्ति (विद्यालय)
उत्तर― वृक्षात् पत्राणि पतन्ति ।
मूषकः बिलात् निर्गच्छति ।।
आकाशात् वृष्टिः भवति ।
नदी पर्वतात् प्रभवति ।
वृक्षात् फल पतति ।
छात्राः विद्यालयात् गृहं गच्छन्ति ।

                                                        ■■

  FLIPKART

और नया पुराने
हमसे जुड़ें
1

Jharkhand Board Solution सबसे पहले पाएं!

Jharkhand Board के Class 9, 10, 11 और 12 के Solutions, Notes, PDF और Exam Updates सबसे पहले पाने के लिए हमारे WhatsApp Channel से जुड़ें।

👉 अभी WhatsApp चैनल जॉइन करें